SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ अष्टादशम| ध्ययनम्शान्तिनाथचरित्रम् १२६-१४० खेचरौ ॥ तयोश्चैको मंत्रितेना-ऽसिञ्चन्नीरण तां चिताम् ॥१२६॥ ततः प्रतारणी कृत्वा-ट्टहासान् द्राकू पलायत तद्वीक्ष्य दध्यौ राट् केयं, क मे कान्ता क चाऽनलः! ॥१२७ ॥ ध्यायन्निति नृपोऽप्राक्षी-त्किमेतदिति तो नरौ॥ ततो राजानमानम्य, तावप्येवमयोचताम् ॥ १२८ ॥ आवां हि पत्ती अमित-तेजसो नन्तुमर्हतः॥ निर्यातौ द्रागिहायातौ, वाणीमशृणुवेशीम् ॥ १२९ ॥ हा सोदरामिततेजो !, हा श्रीविजय मत्प्रिय ! ॥ इमां सुतारामेतस्माद्विमोचयत खेचरात् ॥ १३०॥ गिरं तामनुधावयां, दृष्टावाभ्यां तव प्रिया ॥ उपात्ताशनिघोषेण, सुताराऽस्मत्प्रभोः खसा ॥१३॥ तां विमोचयितुं दुष्ट !, तिष्ठ तिष्ठेति वादिनी ॥ योद्धमुत्को समं तेन, सुताराऽऽवामदोऽवदत् ॥१३२॥ युवां ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् ॥ प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ॥१३३॥ ततोऽत्र द्रुतमेता|भ्या-मावाभ्यां मंत्रितैर्जलैः ॥ चिताग्निःशमितो दुष्टा, नाशिता च प्रतारणी॥१३४॥ हृतां सुतारां ज्ञात्वाऽथ,विषन्नं तं | नरेश्वरम् ॥ गाढाग्रहण वैताढ्यं, निन्यतुस्तौ नभश्चरौ ॥१३५ ॥ तं चाभ्युदस्थात्सहसा-ऽमिततेजाः ससम्भ्रमः ॥ प्रतिपत्तिं च कृत्वोचैः, पप्रच्छागमकारणम् ॥ १३६ ॥ ततः श्रीविजयेनोक्तौ, तौ विद्याधरकुअरी ॥ तस्मै सर्व सुताराया, हरणोदन्तमूचतुः ॥ १३७ ॥ क्रुद्धोऽथामिततेजास्तं, प्रोचे हृत्वा तव प्रियाम् ॥ मज्जामि च कियन्नामा-ऽशनि| घोषः स जीविता ॥ १३८ ॥ उक्त्वेति शस्त्रावरणी, बन्धनी मोचनी तथा ॥ विद्याममिततेजाः श्री-विजयाय ददौ |मुदा ॥१३९॥ वृतं सैन्यान्वितैः खीय-सुतानां पञ्चभिः शतैः ॥ प्रेषीत् श्रीविजयं सद्यः, सुतारानयनाय सः॥१४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy