SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३५३ ॥ १५ १८ २१ २४ ॥ १११ ॥ तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणैः ॥ जामिं सुतारामभ्यर्च्य - ऽमिततेजा ययौ गृहम् ॥ ११२ ॥ अथान्यदा श्रीविजयः, समं देव्या सुतारया ॥ ययौ क्रीडितुमुद्यानं, मुदा ज्योतिर्वनाभिधम् ॥ ११३ ॥ तदा च कपिलजीवः, खेचरोऽशनिघोपराट् ॥ सुतारां प्राग्भववधूं, तत्राद्राक्षीदिवि व्रजन् ॥ ११४ ॥ तस्यां प्राग्भवसंस्कारात्सोऽनुरागं दधौ भृशम् ॥ तां जिहीर्षुर्मृगं हैमं, तदग्रे विद्यया व्यधात् ॥ ११५ ॥ सुतारा कान्तमित्यूचे, तं च वीक्ष्यातिमञ्जुलम् ॥ आनीय मृगमेनं मे देहि क्रीडाकृते प्रभो ! ॥ ११६ ॥ ततो ग्रहीतुं तं धावन् यावहूरमगान्नृपः ॥ तावदेकाकिनीं देवीं जहाराऽशनिघोषराट् ॥ ११७ ॥ नृपं हन्तुं प्रयुक्ता च तेन विद्या प्रतारणी ॥ प्रोच्चकैः पुच्चकारेति, सुतारारूपधारिणी ! ॥ ११८ ॥ दष्टां कुक्कुटसर्पेण, प्रिय ! त्रायख मां द्रुतम् ॥ तदाकर्ण्य नृपो याव - तत्रागाद्गाढमाकुलः ॥ ११९ ॥ तावत्तां पतितां पृथ्व्यां, विपन्नां वीक्ष्य पार्थिवः ॥ मूच्छितो न्यपतद्भूमा - वनुकुर्वन्निव प्रियाम् ॥ १२० ॥ सिक्तोऽथ चन्दनरसैः, प्राप्तसंज्ञो धराधिपः ॥ व्यलापीदिति हा कान्ते!, किं ते जातेशी दशा ? ॥ १२१ ॥ हिरण्यहरिणेनाद्य, मूढोऽहं वञ्चितोऽस्मि हा ! ॥ मय्यासन्ने हि शेषाहि - रपि त्वां दंष्टुमप्रभुः ॥ १२२ ॥ त्वां विना न क्षणमपि, जनोऽसौ जीवितुं क्षमः ! ॥ कदाऽपि किं जीवति हि, मीनः पानीयमन्तरा १ ॥ १२३ ॥ तद्दुःखं त्वद्वियोगोत्थ-मसासहिरयं जनः ॥ अन्तयत्वनुगम्य त्वां, सत्वरं जीवितेश्वरि ! ॥ १२४ ॥ इत्युदीर्य महीनाथः, समं दयितया तया ॥ विमोहमोहितोऽध्यास्त, नियुक्त रचितां चिताम् ॥ १२५ ॥ वहौ ज्वलितुमारब्धे तत्रागातां च अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् | ११२-१२५ ॥ ३५३ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy