________________
१२
सप्ताहं वसतु खामी तद्वैताढ्यगुहान्तरे ! ॥ ९७ ॥ तृतीयो न्यगदन्नाय - मुपायः प्रतिभाति मे । अवश्यम्भावी भावो हि, यत्रतत्रापि जायते ! ॥ ९८ ॥ तत्तपः क्रियतां सर्वैः, सर्वोपद्रववारकम् ॥ तपसा क्षीयते कर्म, निकाचितमपि द्रुतम् ॥ ९९ ॥ तुर्यः प्रोचे पोतनोर्थी- पतेरुपरि कथ्यते ॥ गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ॥ १०० ॥ क्रियतामपरः कोऽपि, सप्ताहमिह तन्नृपः ॥ पतिष्यति तडित्तस्मिन्, स्वामी स्थास्यति चाक्षतः ॥ १०१ ॥ प्रतिपेदे मुदा दैव- ज्ञेनाऽमात्यैश्च तद्वचः ॥ अहो ! साधु मतिज्ञानं, भवतामिति वादिभिः ॥ १०२ ॥ ततोऽहमब्रुवं त्रातुं, खप्राणानपरं नरम् ॥ न घातयिष्ये खप्राणाः, सर्वेषामपि हि प्रियाः । ॥ १०३ ॥ ऊचिरे सचिवाः खामिन् !, विचारोऽसौ विमुच्यताम् ॥ श्रीवैश्रवणयक्ष्यस्य, मूर्त्तीराज्येऽभिषिच्यताम् ॥ १०४ ॥ उपद्रवो दिव्यशक्त्या, न चेद्भावी तदा शुभम् ॥ भावी चेज्जीवहिंसायाः, पापं नाथ ! न भावि ते ॥ १०५ ॥ इदं हि युक्तमित्युक्त्वा, ततोऽहं जिनसद्मनि ॥ गत्वास्थां पौषधं कृत्वा, दर्भसंस्तारकं श्रितः ! ॥ १०६ ॥ राज्येऽभिषिक्तं यक्षं चा-Sभजन्मामिव नागराः ॥ सप्तमे चाहि मध्याह्ने, गर्जन्नुदनमद् घनः ॥ १०७ ॥ उद्दण्डोऽथ तडिद्दण्डः, प्रचण्डो वडवाग्निवत् ॥ यक्षमूत सनिर्घातः, पपात जलदात्ततः ॥ १०८ ॥ तदा च तुष्टा दैवज्ञे, रत्नानि ववृपुः प्रजाः ॥ चैत्याच निर्गतं राज्येऽभ्यषिञ्चन्मां पुनर्मुदा ॥ १०९ ॥ मयापि पद्मिनीषंडं, दत्वा पत्तनमुत्तम् ॥ व्यसर्जि गणको भूरि, तेन छुपकृतं मम ! ॥ ११० ॥ मूर्ति च धनदस्याहं, दिव्यां नव्यामकारयम् ॥ महं कुर्वन्ति पौराश्च विघ्नो मे शान्त इत्यमुम्
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ९७-१११