SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३५२ ॥ १५ १८ २१ २४ मिथो जामिपती तौ च गाढमालिङ्गतां मिथः ॥ ८२ ॥ ततः सिंहासनासीनं नृपं सिंहासनस्थितः ॥ पप्रच्छामिततेजास्तं, किंनिमित्तोऽयमुत्सवः ॥ ८३ ॥ ततः श्रीविजयोवादी- दितोऽतीतेऽष्टमे दिने ॥ कोऽपि नैमित्तिकोऽत्रागात् प्रतिहारनिवेदितः ॥ ८४ ॥ किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् ॥ निमित्तं वक्तुमागां त- त्सावधानः शृणु प्रभो ! ॥ ८५ ॥ सप्तमेऽह्नि दिनादस्मा - जाते मध्यंदिने महान् । पतिष्यति तडिद्दण्डः, पोतनाधीशमूर्द्धनि ॥ ८६ ॥ तत्कर्णकटुकं श्रुत्वा, कुपितोऽमात्यपुङ्गवः ॥ तदा पतिष्यति किमु त्वयीति तमवोचत ॥ ८७ ॥ दैवज्ञोऽथावदन्मां, यथादृष्टार्थवादिने ॥ प्रतीपशकुनायेव, धीसखाधीश ! मा कुपः ॥ ८८ ॥ तत्राहि मयि तु स्वर्ण-रत्नवृष्टिः पतिष्यति ॥ वदन्तमिति दैवज्ञ - मित्यपृच्छमहं ततः ॥ ८९ ॥ निमित्तमीदृग् दैवज्ञा - ऽधीतं ब्रूहि कुतस्त्वया १ ॥ सोवादीदचलखामी, प्रत्रज्यामाददे यदा ॥ ९० ॥ तदा प्रव्रजता पित्रा, सहाहं प्रात्रजं शिशुः ॥ महानिमित्तमष्टांगं, तत्रेदं शिक्षितं मया ॥ ९१ ॥ पुरं च पद्मिनीषंडं, यौवने विहरन्नगाम् ॥ हिरण्यलोमिकाङ्क्षा मे, तत्र चास्ति पितृष्वसा ॥ ९२ ॥ तया खपुत्री दत्तासी - द्वाल्या चंद्रयशा मम ॥ अहं तु प्राव्रजमिति, पर्यणैषं न तां तदा ॥ ९३ ॥ तां च वीक्ष्याऽधुना प्राप्त - यौवनां व्यामुहं मुहुः ॥ तत्सोदरगिरा त्यक्त-व्रतः पर्यणयं च ताम् ॥ ९४ ॥ निमित्तेन ततः स्वार्थ, महानर्थममुं च ते ॥ विज्ञायाहमिहागां त यथोचितमथो कुरु ॥ ९५ ॥ तेनेत्युक्तेत्रवीदेको, मंत्री नाब्धौ पतेत्तडित् ॥ तत्र तिष्ठतु सप्ताहं, नावारूढो विभुस्ततः ॥ ९६ ॥ ऊचेऽन्यः केन तत्राऽपि, पतन्ती सा निरोत्स्यते ॥ १ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ८२-९६ ।। ३५२ ।।
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy