________________
१२
श्रीषेणनृपजीवोऽथ, प्रथमस्खर्गतश्युतः ॥ मुक्ता शुक्ताविव ज्योति-र्मालाकुक्षाववातरत् ॥ ६८ ॥ वने तदा च सादित्यं ददर्शामिततेजसम् ॥ क्रमाच सुषुवे पुत्रं पवित्रं पुण्यलक्षणैः ॥ ६९ ॥ खप्नानुसारतस्तस्या - ऽमिततेजा इति स्फुटम् ॥ नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ॥ ७० ॥ भामाजीवश्युतः स्वर्गा-दर्ककीर्तिमहीपतेः ॥ सुताराह्वा सुता ज्योति-मलागर्भोद्भवाभवत् ॥ ७१ ॥ च्युत्वाभिनन्दिताजीव- स्त्रिपृष्टस्य हरेरभूत् ॥ स्वयंप्रभाकुक्षिजन्मा, सुत श्रीविजयाह्वयः ॥ ७२ ॥ शिखिनंदिताजीवस्तु, च्युत्वा ज्योतिःप्रभाभिधा ॥ खयंप्रभाकुक्षिभवा, त्रिपृष्ठस्य सुताऽभः वत् ॥ ७३ ॥ कपिलः स तु संसारे, भ्रान्त्वा विद्याधराधिपः ॥ पुर्या चमरचञ्चाया - मजन्यश निघोषराटू ॥ ७४ ॥ सुतारामर्ककीर्त्तिः श्री- विजयेनोदवाहयत् ॥ ज्योतिःप्रभां त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ॥ ७५ ॥ अथान्यदाभिनन्दन - जगन्नंदनसंज्ञयोः ॥ चारणत्रतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ॥ ७६ ॥ अर्ककीर्त्तिः निजे राज्ये, निधायामिततेजसम् ॥ मुक्तेः सरलमध्वानं, प्रव्रज्यामाददे मुदा ॥ ७७ ॥ [ युग्मम् ] ततो विद्याधराधीश- मौलिलालित| शासनः ॥ राज्यं तत्पालयामासा - ऽमिततेजा महाभुजः ॥ ७८ ॥
इतश्च मरणे विष्णो- त्रिपृष्ठस्य विरक्तधीः ॥ न्यस्य श्रीविजयं राज्ये, प्रात्राजीदचलो बलः ॥ ७९ ॥ अथान्यदा सुताराश्री- विजयौ द्रष्टुमुत्सुकः । जगाम पोतनपुरे - ऽमिततेजा महीपतिः ॥ ८० ॥ उत्तम्भितध्वजं तच्च, पुरमानन्दमेदुरम् ॥ विशेषाच नृपकुलं, वीक्ष्य हृष्टं विसिष्मिये ॥ ८१ ॥ व्योमोत्तीर्ण तं च वीक्ष्यो- दस्थात् श्रीविजयो मुदा ॥
अष्टादशमध्ययनम्
शान्तिनाथचरित्रम् ६८-८१