________________
१२
शब्दं वा रतिसमयकृतं क्रन्दितशब्दं वा प्रोषितभर्तृकादिकृताक्रन्दरूपं, विलपितशब्दं वा विलापरूपं, श्रोता भवति यस निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ५ ॥। ८ ।। षष्ठमाह
मूलम् -नो निग्गंथे पुवरयं पुत्रकीलिअं अणुसरिता भवइ, तं कहमितिचे ? आयरिआह - निग्गंथस्स | खलु इत्थीणं पुवरयं पुनकीलिअं अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुवरयं पुवकीलिअं अणुसरेजा ॥ ९ ॥
व्याख्या - नो निर्ग्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोगं, पूर्व क्रीडितं पूर्वकालभावि स्त्रीभिः सह द्यूतादिक्रीडारूपं, अनुस्मर्त्ता अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥ ६ ॥ ९ ॥ सप्तममाह
मूलम् -- णो पणिअं आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह- निग्गंथस्स खलु पणिअं पाणभोअणं आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जावकेवलिपण्णताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे पणीअं आहारमाहरेजा ॥ १० ॥
व्याख्या--नो प्रणीतं गलत्स्नेहबिन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूद्रेक कारकमाहारमाहारयिता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ७ ॥ १० ॥ अष्टममाह -
966666
षोडशम
ध्ययनम् सू ९-१०