________________
उत्तराध्ययन ॥३२१॥
षोडशमध्ययनम्
CACARREARSACCA
व्याख्या--नो स्त्रीणामिन्द्रियाणि नयनादीनि, मनश्चित्तं हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि, मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि, आलोकिता ईषद्रष्टा, निर्ध्याता गाढं निरीक्षिता, यद्वा निध्याता दर्शनानन्तरमहो ! नेत्रयोः सलवणत्वं, नाशायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निर्गन्थः, शेषं प्राग्वदिति सूत्रांर्थः ॥ ४ ॥ ७ ॥ पञ्चममाहमूलम्-नो निग्गंथे इत्थीणं कुडंतरंसि वा, दूसंतरंसि वा, भित्तिंतरंसि वा, कुइअसदं वा, रुइअसदं| वा, गीअसदं वा, हसिअसदं वा, थणिअसदं वा, कंदिअसदं वा, विलविअसदं वा, सुणित्ता हवइ से निग्गंथे । तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं कुटुंतरंसि वा जाव-विलविअसदं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-केवलिपण्णत्ताओ वा धम्माओ भसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कुडुंतरंसि वा जाव-सुणमाणो विहरेज्जा ॥८॥
व्याख्या-नो निर्ग्रन्थः स्त्रीणां कुड्यं लेष्टकादिरचितं तेनान्तरं व्यवधानं कुड्यान्तरं तस्मिन्वा, दूष्यं वस्त्रं यवनिकादिरूपं तदन्तरे वा, भित्तिः पक्केष्टकादिरचिता तदन्तरे वा, स्थित्वेति शेषः। कूजितशब्दं वा रतसमये कोकिलादिपक्षिभाषारूपं, रुदितशब्दं वा रतिकलहादिषु, गीतशब्दं वा पञ्चमादिरूपं, हसितशब्दं वा कहकहादिकं, स्तनित
॥३२१॥