________________
उत्तराध्ययन ॥ ३५० ॥
१५
१८
२१
२४
पिता ! ॥ २४ ॥ तयोः पितापुत्रयोश्च वीक्ष्याचारेऽन्तरं महत् ॥ जाताशंका भृशं भामे-त्युवाच श्वशुरं रहः ॥ २५ ॥ द्विजन्महत्याशपथं दत्वा पृच्छामि वः प्रभो ! ॥ पुत्रोऽयं वः शुद्धपक्ष-द्वयोऽन्यो वेति कथ्यताम् ॥ २६ ॥ ततोऽसौ | शपथच्छेद - भीरुः सूनृतमब्रवीत् ॥ कपिलेन विसृष्टश्च जगाम ग्राममात्मनः ॥ २७ ॥ सत्याथ गत्वा श्रीषेण नृपमेवं व्यजिज्ञपत् ॥ भर्त्ता भूदकुलीनो मे, देव ! दैवनियोगतः ॥ २८ ॥ तस्मान्मोचय मां तेन, मुक्ता हि प्रव्रजाम्यहम् ॥ ततः कपिलमाहूय, प्रोवाचेति महीपतिः ॥ २९ ॥ धर्मकर्मोद्यतां मुञ्च, विरक्तां ब्राह्मणीमिमाम् ॥ किमस्यां हि विरक्तायां, भावि भोगसुखं तव ! ॥ ३०॥ सोवादीद्देव नैवैनां, निजां त्यक्षामि कामिनीम् ॥ न क्षमोऽस्मि क्षणमपि, विनामुष्या हि जीवितुम् ॥ ३१ ॥ भामा प्रोचे यद्यसौ मां, न जहाति तदा म्रिये ॥ व्याजहार ततो राजा, मुधा मा | म्रियतामियम् ॥ ३२ ॥ किन्तु तिष्ठत्वसौ कञ्चित्कालं कपिल ! मगृहे ॥ एवमस्त्विति सोप्यूचे, तां बलान्नेतुमक्षमः ॥ ३३ ॥ सत्या सत्याशया राज्ञा, पट्टराइयोस्ततोऽर्पिता ॥ तस्थौ खच्छमनस्तत्रा - चरन्ती दुश्वरं तपः ॥ ३४ ॥ अन्यदाऽनन्तमतिकां वीक्ष्य वेश्यां मनोहराम् ॥ इन्दुषेणविन्दुषेणा - वभूतामनुरागिणी ॥ ३५ ॥ तां च कामयमानौ तौ, सुरभिं वृषभाविव ॥ सोदरावपि सामप, युध्येते स्म परस्परम् ! ॥ ३६ ॥ तद्वीक्षितुं निरोद्धुं चा-प्रभूः श्रीषेणभूविभुः ॥ विपेदे पद्ममाघ्राय, विषमिश्रं त्रपातुरः ! ॥ ३७ ॥ व्यपद्येतां तथैवाभि- नंदिताशिखिनन्दिते ॥ शिश्राय कपिलाद्भीता, सत्यभामाऽपि तत्पथम् ! ॥ ३८ ॥ चत्वारोऽपि विपद्यैव-मतीव सरलाशयाः ॥ युग्मिनो जज्ञिरे जम्बू
अष्टादशम ध्ययनम्
(१८)
शान्तिनाथचरित्रम्
२४-३८
॥३५०॥