________________
CARRESCORTS
तथाप्याप्रतीकार-मकुर्वन्तं तमन्यदा ॥ पुरुहूतः पुरः खाहा-भुजामेवमवर्णयत् ।। २४०॥ अहो । सनत्कुमारोसी,
13 अष्टादशमधैर्याधरितभूधरः ॥ त्यक्त्वा चक्रिश्रियं भार-मिवोग्रं तप्यते तपः!॥ २४१ ॥रोगानलाब्दमालासु, लब्धाखपि हि ध्ययनम् लब्धिषु ॥ चिकित्सति यतिः काय-निस्पृहो नायमामयान् !॥ २४२ ॥ अश्रद्दधानी तद्वाक्यं, तावेव त्रिदशौ
सनत्कुमार
चक्रिकथा ततः ॥ अभिरूपभिषग्रूपौ, मुनिरूपमुपेयतुः ॥ २४३॥ तं चेत्यवोचतां साधो !, यदि त्वमनुमन्यसे ॥ धर्मवैद्यौ
२४०-२५३ चिकित्साव-स्तदावां तेऽगदान्मुदा ॥ २४४ ॥ भूयो भूयः पुरोभूय, ताभ्यामित्युदितो व्रती ॥ उवाच वाचा चित्तस्थं, तत्त्वामृतमिवोगिरन् ॥ २४५॥ चिकित्सथो युवां कर्म-रोगान् किं वा वपुर्गदान् ? ॥ तावुचतुश्चिकित्साव, आवां कायामयान्मुने ! ॥ २४६ ॥ ततो लिप्त्वाङ्गुली पामा-शीर्णा निष्ठीवनेन सः ॥ वर्णवर्णसवर्णाभां, व्यधादेवमुवाच च ॥ २४७॥ आतङ्कान्तं नयाम्येता-दृशांस्तु स्वयमप्यहम् ॥चिकित्सा क्रियते कर्म-रुजां चेत्कार्यते तदा ! ॥२४८॥ हन्तुं कामयान् शक्ता,यूयमेवेतिवादिनौ ॥ विस्मितौ तौ ततश्चक्रि-मुनिं नत्वैवमूचतुः॥ २४९ ॥ लब्धलब्धिरपि व्याधि-व्यथा धीरस्तितिक्षते ॥ सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् ॥ २५० ॥ ततस्ते रूपवीक्षार्थ, यथावामागतौ पुरा ॥ तथा सत्वपरीक्षार्थ-मधुनापि समागतौ ॥ २५१॥ दृष्टं च तदपि स्पष्टं सुराचल इवाचलम् ॥ इत्युक्त्वा तं च नत्वा तौ, तिरोधत्तां सुधाशनौ ॥ २५२ ॥ कौमारे मण्डलीत्वे च, लक्षार्द्ध शरदामभूत् ॥ लक्षं च तस्य चक्रित्वे, श्रामण्येऽपि तदेव हि ॥ २५३ ॥ वर्षलक्षत्रयीमान-मतिवाटायुरित्ययम् ॥ चकारानशनंप्रान्ते, सम्मे