SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अष्टादशम| ध्ययनम् सनत्कुमारचक्रिकथा २१२-२२५ रूपं तदस्य शक्रेण, मिथ्या न खलु वर्णितम् ॥ अद्यय॑याप्यभूवावां, कृतार्थावस्य दर्शनात् ॥ २१२ ॥ शुभवन्तौ भव-I न्तौ भोः!, कुतो हेतोरिहागतौ ?॥अथेत्युक्तौ नृदेवेन,भूदेवावेवमूचतुः ॥ २१३॥ रूपमप्रतिरूपं ते, वर्ण्यमानं जगजनैः॥ निशाम्यावामिहायातौ, तद्दर्शनकुतूहलात् ॥ २१४ ॥ यादृशं च तवावाभ्यां, श्रुतं रूपं जनाननात् ॥ दृश्यते| सविशेष भू-विशेषक! ततोप्यदः ॥ २१५॥ ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमी !॥ किं मे मजनसजस्य, रूपमेतन्निरूपितम् ? ॥ २१६ ॥ तत्कृत्वा मजनं सार-रत्नालङ्कारभासुरः ॥ शोभयामि सभां यावत् , क्षणं तावत् प्रतीक्ष्यताम् ॥ २१७ ॥ रूपं तदा च मे सम्यक् , प्रेक्षणीयं मनोरमम् ॥ इत्युक्तौ देवभूदेवी, राज्ञा तस्थतुरन्यतः ॥ २१८ ॥ स्त्रात्वा भूपस्ततो भूरि-भूषाभूपितभूधनः ॥ सभां विभूष्य तौ विप्रो, रूपं द्रष्टुं समादिशत् ॥ २१९ ॥ | अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीशम् ॥ विपण्णी दध्यतुरहो !, नृणां रूपादि चञ्चलम् ॥ २२०॥ नृपः प्रोचे पुरा प्रेक्ष्य, मां युवां मुदितावपि ॥ विषादश्यामलास्यौ द्राक् , सातौ साम्प्रतं कुतः ? ॥ २२१ ॥ तावूचतुः सुरावावां, दिवि देवेन्द्रवर्णितम् ॥ अश्रद्दधानी त्वद्रूपं, परीक्षितुमिहागतौ ॥ २२२ ॥ रूपं तव पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रोदितादपि ॥ हृष्टावपि विषीदावो-ऽधुनाऽन्याग् निरीक्ष्य तत् ! ॥२२३॥ एतावताऽपि कालेनो-द्भूताः काये तवाऽऽमयाः ॥ राक्षसैरिव तैर्ग्रस्ता, रूपलावण्यकान्तयः !॥ २२४ ॥ इत्युदित्वा तयोरन्त-हितयोः खवपुर्नृपः ॥ पश्यनपश्यद्विच्छायं, रजश्छन्नमिवारुणम् ॥ २२५॥ दध्यौ चैवमहो ! देहे, का नामास्था मनीषिणाम् ? ॥ विविधाः 02525-256754564SAMACHCHESC
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy