________________
उत्तराध्ययन
॥
४७॥
अष्टादशमध्ययनम्
(१८) सनत्कुमारचक्रिकथा १९७-२११
*****MAKAKASASAK*%*%**
तत्पुरं स्वपुरीसमम् ॥ विसृष्टश्चक्रिणा वर्ग, ययौ यक्षपतिर्दुतम् ॥ १९७ ॥ चक्रेऽथ पार्थिवैस्तस्या-ऽभिषेको द्वादशाब्दिकः ॥ कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ॥ १९८ ॥ भोगांश्चावामवामाक्षी-सम्भोगाभोगमञ्जुलान् ॥ भुजानोऽगमयद्भूमान् , वासरानिव वत्सरान् ॥ १९९ ॥ अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः ॥ नाटकं नाटयन्नासी-द्रम्यं सौदामिनाभिधम् ॥२०॥ तदा तत्रेशानकल्पा-दाययौ सङ्गमाभिधः ॥ सुपर्वा रूपतेजोभ्यां, निर्ज- रान्निर्जयन् परान् ॥२०१॥ तस्मिन् गते सुराः शक्र-मपृच्छन्निति विस्मिताः॥ कुतोऽस्य तेजो रूपं च, सर्वगीर्वाणगर्वहृत् ॥ २०२॥ इन्द्रः प्रोचेऽमुनाचाम्ल-वर्धमानाभिधं तपः ॥ कृतं पूर्वभवे तेजो, रूपं चास्य तदीदृशम् ॥ २०३॥ एवंविधोऽन्योऽपि कोऽपि, किमस्ति भुवनत्रये ॥ इति पृष्टः पुनर्देवै-देवराजोऽब्रवीदिदम् ॥ २०४ ॥ सनत्कुमारनामास्ति, नृहस्ती हस्तिनापुरे ॥ तस्य रूपं च तेजश्च, सुरेभ्योऽप्यतिरिच्यते ! ॥२०५॥ अश्रद्दधानौ तच्छक-वचनं त्रिदशावुभौ ॥ विजयो वैजयन्तश्च, विप्ररूपमुपाश्रितौ ॥ २०६॥ आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ ॥ बभूव सार्वभौमस्तु, तदा प्रारब्धमजनः ॥ २०७॥ [युग्मम् ] प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ ॥ वैदेशिकान् दर्शनोत्कान् , विलम्बयति नो सुधीः ॥२०८॥ ततस्तौ वीक्ष्य तद्रूप-मधिकं शक्रवर्णितात् ॥ प्राप्तौ वचोतिगं चित्रं, शिरोऽधूनयतां चिरम् ॥ २०९॥ दध्यतुश्चेत्यहो! अस्य, तेजःप्राज्यं रवेरिव ॥ पयोधिजलवन्माना-तिगं लावण्यमप्यहो! ॥२१०॥ स्थाप्यते दृष्टिरस्याङ्गे, यत्र यत्र ततस्ततः॥कीलितव निमग्नेव, कृच्छ्रादेव निवर्तते!॥२११॥
525455555644