SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३४६॥ अष्टादशमध्ययनम् (१८) सनत्कुमार चक्रिकथा १६८-१८१ तत्रासिताक्षयक्षं च, पराजेता महाभुजः ॥ १६८ ॥ ततो बकुलमत्यादि-सुताशतमिदं मम ॥ परिणीय प्रभो ! क्षिप्रं, प्रार्थनां मे कृतार्थय ॥ १६९ ॥ विज्ञप्त इति मत्पित्रा, वयस्सस्ते महाशयः॥ मदादिकाः शतं कन्याः, परिणिन्ये महामहैः ॥ १७० ॥ ततो विविधलीलाभिः, क्रीडन् विद्याधरीवृतः॥निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ॥१७॥ अद्य तु क्रीडयात्रागा-दैवाच मिलितो भवान् ॥ अनुकूले हि दैवे स्था-द्विनोपायमपीहितम् ॥ १७२ ॥ एवं बकुलमयोक्ते, गृहान्निर्गत्य भूपभूः ॥ मित्रेण सह वैताड्यं, जगाम सपरिच्छदः ॥ १७३ ॥ प्राप्यावसरमन्येधु-महेन्द्रस्तं व्यजिज्ञपत् ॥ पितरौ त्वद्वियोगात्तौं, प्रभो ! भूरि विषीदतः॥१७४॥ कदा कुमारं द्रक्ष्यामो, ध्यायन्तावित्यहर्निशम् ॥ खदर्शनेन पितरौ, प्रमोदयितुमर्हसि ॥१७५॥ श्रुत्वेति सोऽपि सोत्कण्ठः, सकलत्रखमित्रयुक् ॥ विमानैर्विविधैर्योनि, दर्शयन् शतशो रवीन् ॥ १७६ ॥ दिव्यवेपोमयायि-द्विपवाहादिवाहनैः॥ ससैन्यैः खेचराधीशै-वृतः शक्र इवामरैः ॥ १७७ ॥ वर्यतूर्योधनिर्घोषै, रोदसी परिपूरयन् ॥ जगाम सम्पदां धाम, पुरं श्रीहस्तिनापुरम् ॥ १७८ ॥ [त्रिभिविशेषकम् ] तत्र खदर्शनेनाशु, पितरौ नागरांश्च सः ॥ प्राममुदश्चक्रवाकी, पद्मानि च यथार्यमा ॥ १७९ ॥ पश्यन्पुत्रस्य तां लक्ष्मी-मश्वसेननरेश्वरः ॥ विस्मयं च प्रमोदं च, प्राप वाचामगोचरम् ॥ ॥ १८० ॥ तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्यात्मनश्च तम् ॥ वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ॥ १८१॥ ततोऽश्वसेनभूपालः, पुत्र राज्ये न्यवी १ जयिष्यति महाभुजः । इति "ध" संज्ञकपुस्तके । ॥३४६॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy