________________
ददौ ॥ ततोयमपि सन्नय, रथमारोहदाजये ॥ १५३ ॥ ततोऽमुं चन्द्रवेगाद्याः, खेचराः परिवत्रिरे ॥ तदाचाशनिवे
अष्टादशमगस्य, तत्राऽगात्प्रबलं बलम् ॥ १५४ ॥ तेन सार्द्ध चन्द्रवेग-भानुवेगौ बलान्वितौ ॥ योद्धं प्रवृत्तौ त्वन्मित्रं, निपि- ध्ययनम् ध्यापि रणोद्यतम् ॥ १५५ ॥ योधं योधं भग्नयोश्च, सैन्ययोरुभयोश्चिरात् ॥ आर्यपुत्राशनिवेगौ, युयुधाते महौजसौ
सनत्कुमार
चक्रिकथा ॥ १५६ ॥ तयोश्च कुर्वतोयुद्धं, जयश्रीसङ्गमोत्कयोः ॥ आशुगैराशु तिरयां-चक्रिरे भानुभानवः ॥ १५७ ॥ मुमोचा
१५३-१६७ शनिवेगोऽथ, नागास्त्रमतिभीषणम् ॥ तच गारुडशस्त्रेण, न्यग्रहीद्भवतः सखा ॥ १५८ ॥ आग्नेऽयं वारुणेनैवं, वायव्यं पार्वतेन च ॥ वैरिशस्त्रं निजग्राह, प्रतिशस्त्रेण ते सुहृत् ॥ १५९ ॥ ततः कार्मुकमादाय, नाराचं मुंचतो द्विषः॥ अर्द्धन्दुनाऽसौ चिच्छेद, मौवी सह जयाशया ॥१६०॥ अथो कृपाणमाकृष्य, धावतस्तस्य ते सखा ॥ बाहोरर्द्ध महाबाहु-मृणालच्छेदमच्छिनत् ॥ १६१॥ तथापि धावतो हन्तुं, तस्य प्रज्वलतः क्रुधा ॥ विद्यादत्तेन चक्रेण, चक्रेऽसौ8 मस्तकं पृथक् ! ॥ १६२ ॥राज्यलक्ष्मीस्ततः सर्वा, तस्य खेचरचक्रिणः ॥ हराविव प्रतिहरेः, सञ्चक्राम मम प्रिये ॥ १६३ ॥ सन्ध्यावलीसुनन्दाभ्यां, सानन्दाभ्यां युतस्ततः ॥ वैताढ्याद्रौ जगामासौ, चन्द्रवेगादिभिः समम् ॥१६४॥ तत्र चामुष्य संभूय, सकलैः खेचरैश्चरैः ॥ विद्याधरमहाराज्या-भिषेको निर्ममे मुदा ॥ १६५॥ अथैनं शाश्वते चैत्ये, विहिताष्टाहिकोत्सवम् ॥ खेचरेन्द्रश्चन्द्रवेग, इत्यूचे मत्पिताऽन्यदा ॥१६६ ॥ ममार्चिालिमुनिना, प्रोक्तं यत्तुर्यचक्रभृत् ॥ भावी सनत्कुमाराख्यः, पतिः पुत्रीशतस्य ते ॥ १६७ ॥ स चायास्यति मासेन, मानसेऽत्र सरोवरे ॥