________________
षट्त्रिंशमध्ययनम्. गा७८-८१
___ व्याख्या-'एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः ? यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ॥ ७७ ॥ पृथ्वीकायानेव क्षेत्रत आहमलम-सुहमा य सबलोगंमि, लोगदेसे अ बायरा। एत्तो कालविभागंतु, तेसिं वोच्छं चउविहं॥७॥ __ व्याख्या-सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादौ बादराः । शेषं स्पष्टम् ॥ ७८ ॥ मूलम्-संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआ वि अ ॥७९॥ ___ व्याख्या-सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रवाहतः कदाप्यसम्भवाभावात् , स्थिति भवस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ७९ ॥ मूलम्-बावीस सहस्साइं, वासाणुकोसिआ भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्नगं ॥८॥
असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगा । कायठिई पुढवीणं, तं कायं तु अमुचओ ॥८१॥ व्याख्या असंख्यकालमसंख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तर्मुहूर्त जघन्यका कायस्थितिः पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुंचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ॥ ८०॥ ८१॥ कालान्तर्गतमेवान्तरमाह