________________
*
*
उत्तराध्ययन ॥५८७॥
१५
षत्रिंशमध्ययनम्.
गा ९-११
*
*
*
मूलम्-समएवि संतई पप्प, एवमेव विआहिए । आएसं पप्प साइए, सपजवसिएवि अ॥९॥ ___ व्याख्या-समयोऽपि सन्ततिं अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य आश्रित्य एवमेव अनाद्यनन्तलक्षणेनैव प्रकारेण व्याख्यातः, आदेशं विशेष प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः ॥९॥ अथामूर्त्ततयाऽमीषां पर्यायाः प्ररूप्यमाणा अप्यवबोडं दुश्शका इति भावतस्तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह
मूलम्-खंधा य १ खंधदेसा य २ तप्पएसा ३ तहेव य ।
- परमाणुणो अ बोधवा, रूविणो य चउबिहा ॥ १० ॥ | व्याख्या-स्कन्धाश्च पुद्गलोपचयापचयलक्षणाः स्तम्भादयः, स्कन्धदेशाश्च स्तम्भादिद्वितीयादिभागरूपाः, तेषां प्रदेशास्तत्प्रदेशाः स्तम्भादिसम्पृक्तनिरंशांशरूपास्तथैव चेति समुच्चये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणश्च रूपिणः पुनश्चतुर्विधाः ॥१०॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाश्च परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ, तयोश्च किं लक्षणमित्याहमूलम्-एगत्तेण पुहत्तेणं, खंधा य परमाणुणो । लोएगदेसे लोए अ, भइअबा ते उ खेत्तओ।
इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ ११॥
*
*
॥५८७॥
*