________________
SAXARANARASAR
व्याख्या-एकत्वेन पृथग्भूतद्वयादिपरमाणुसकाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिस्वरूपेण, पृथक्त्वेन पर-18 षट्त्रिंशमाण्वन्तरैः सहासंघातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एता- मध्ययनम्. नेव क्षेत्रत आह-'लोएगदेसे' इत्यादि-लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेयाः ते इति स्कन्धाः परमा
गा १२ णवश्च, तुः पूरणे, क्षेत्रतः। अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या। ते हि विचित्रपरिणामत्वेन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे अवतिष्ठन्ते, अन्ये तु संख्येयेष्वेव प्रदेशेषु यावकोऽपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत इति क्षेत्रप्ररूपणा| तोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साधनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । इदं च सूत्रं षट्पादं, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ॥ ११ ॥प्रतिज्ञातमाहमूलम्-संतई पप्प तेऽणाई, अपज्जवसिआवि अ। ठिई पडुच्च साईआ, सपजवसिआवि अ ॥१२॥ ___ व्याख्या-सन्ततिमपरापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता | अपि च, न हि प्रवाहतस्तद्वियुक्तं जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थिति प्रतिनियतक्षेत्रावस्थानरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च, ब्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥१२॥ सादि| सपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह