________________
षट्त्रिंश* मध्ययनम्.
गा ६-८
RESERECASTAR
मूलम्-आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ॥६॥
व्याख्या-आङिति मर्यादया खरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकायः आकाशास्तिकायः ॥ १॥ तस्य देशश्च ॥ २॥ तत्प्रदेशश्चाख्यातः ॥३॥ एवं ॥९॥ अद्धा कालवद्रूपः समयोऽद्धासमयोऽनिर्विभागत्वाचास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा व्यवहारत एवोच्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः ॥ ६॥ सम्प्रत्येतानेव क्षेत्रत आह__ मूलम्-धम्माधम्मे अ दोवेए, लोगमेत्ता विआहिआ।
लोआलोए अ आगासे, समए समयखेत्तिए ॥ ७॥ व्याख्या-धर्माधम्मौ च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातो, लोकेऽलोके चाकाशं सर्वगतत्वात्तस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवार्द्धिद्वयरूपं विषयभूतमस्यास्तीति समयक्षेत्रिकस्वत्परतस्वस्याभावादिति सूत्रार्थः ॥७॥ अथामूनेव कालत आहमूलम्-धम्माधम्मागासा, तिपिणऽवि एए अणाइआ। अपजवसिआ चेव, सव्वद्धं तु विआहिआ ८
व्याख्या-धर्माधर्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सबद्धं तुत्ति' सर्वाद्धामेव सर्वदा खखरूपात्यागता नित्यानीति यावत् व्याख्यातानि ॥८॥
ACARSANSAR