SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५८६॥ पट्त्रिंश. मध्ययनम् गा ३-५ मूलम्-दवओ खेत्तओ चेव, कालओ भावओ तहा। परूवणा तेसि भवे, जीवाणं अजीवाण य ॥३॥ व्याख्या-द्रव्यत इदमियनेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालत इदमियत्कालस्थितिकमिति, भावत इमेऽस्य पर्यायास्तथेति समुच्चये इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवजीवानामजीवानां चेति सूत्रद्वयार्थः ॥ ३॥ तत्राल्पवक्तव्यत्वादन्यतोऽजीवप्ररूपणामाहमूलम्-रूविणो चेवऽरूवी अ, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउबिहा ॥४॥ | व्याख्या-रूपिणश्चैव समुच्चये अरूपिणश्च अजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रूविणोवित्ति' द अपिः पुनरर्थस्ततो रूपिणः पुनश्चतुर्विधाः । अत्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ॥४॥ तत्रारूपिणो दशविधानाहमूलम्-धम्मत्थिकाए तसे, तप्पएसे अ आहिए । अधम्मे तस्स देसे अ, तप्पएसे अ आहिए ॥५॥ व्याख्या-धारयत्यनुगृह्णाति गतिपरिणतान् जीवपुद्गलांस्तत्वभावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः है समूहोऽस्तिकायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः ॥ १॥ तस्य धर्मास्तिकायस्य देशस्त्रिभागचतुर्भागादिः तद्देशः ॥२॥ तस्य प्रदेशो निर्विभागो भागस्तत्प्रदेशश्च आख्यातः ॥३॥ न धारयति जीवाणून् गतिपरिणतो स्थित्यवष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः ॥१॥ तस्य देशः २ तत्प्रदेश ३ चाख्यातः ॥५॥ ॥५८६॥ 15
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy