________________
॥ अथ षत्रिंशमध्ययनम् ॥
ट्त्रिंश. मध्ययनम् गा १-२
॥ अहम् ॥ उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसंज्ञं त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीवखरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति: सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-जीवाजीवविभत्तिं, सुणेह मे एगमणा इओ। जं जाणिऊण भिक्खू, सम्म जयइ संजमे ॥१॥
व्याख्या-जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनं जीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयमे इति सूत्रार्थः॥१॥ जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाहमूलम्-जीवा चेव अजीवा य, एस लोए विआहिए। अजीवदेसे आगासे, अलोए से विआहिए ॥२॥
व्याख्या-जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽर्हदायैः, अजीवदेश आकाशमलोकः स | व्याख्यातो धर्मास्तिकायादिरहित स्याकाशस्यैवालोकत्वात् ॥ २ ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह