________________
उत्तराध्ययन
॥ ५८५ ॥
१५
१८
व्याख्या–‘निज्जूहिऊणत्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुः क्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं बोन्दिं तनुं प्रभुवर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखैः शारीरमान सैर्विमुच्यते ॥ २० कीदृशः सन् दुःखैर्विमुच्यते इत्याह
मूलम् — निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिव्वुडेत्ति बेमि ॥ २१ ॥
व्याख्या — निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च तथा अनाश्रयः कर्माश्रवरहितः, संप्राप्तः केवलं ज्ञानं शाश्वतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽस्वास्थ्यहेतुकर्माभावात् सर्वथा स्वस्थीभूत इत्येकविंशतिसूत्रार्थः ॥ २१ ॥ इति ब्रवीमीति प्राग्वत्
veg veg wees vegveg veg og gv vesves इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ॥ ३५ ॥ फल फल फल फल फल
पञ्चत्रिंश
मध्ययनम्. (३५)
गा २१
।। ५८५ ।।