________________
रुच्यते, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिः सैवास्याः समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्वं चतुर्विंशतद्विदो वदन्तीति ॥ ५३॥ पद्मायाः स्थितिमाह
मध्ययनम्.
गा५४.५५ मूलम्-जातेऊए ठिई खलु, उक्कोसा सा उ समयमब्भहिआ।
जहण्णेणं पम्हाए, दस उ मुहत्ताहिआई उक्कोसा ॥ ५४ ॥ __ व्याख्या-अत्र'सा उत्ति' सैव 'दस उत्ति' दशैव देवप्रस्तावात्सागरोपमाणि 'मुहुत्ताहिआइंति' पूर्वोत्तरभवसत्का-18 न्तर्मुहूर्त्ताधिकानि, इयं च जघन्या सनत्कुमारे, उत्कृष्टा बह्मलोके । आह-यदीहान्तर्मुहूर्तमधिकमुच्यते तदा पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते-देवभवलेश्याया एव तत्र विवक्षितत्वात् , प्रतिज्ञातं हि 'तेण परं चोच्छामि, लेसाण ठिई उ देवाणंति' एवं सतीहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैवं, अत्र हि पूर्वोत्तरभवलेश्यापि "अंतोमुहुर्तमि गए, अंतमुहुत्तंमि सेसए चेवत्ति" वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्वमुक्तमिति न विरोध इति भावनीयम् ॥ ५४ ॥ शुक्लायाः स्थितिमाह
मूलम्-जा पम्हाई ठिई खल, उक्कोसा सा उ समयमब्भहिआ।
जहण्णेण सुक्काए, तित्तीसमुहत्तमभहिआ ॥ ५५॥