SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। ५७९ ।। १५ १८ २१ २४ व्याख्या – इहापि पूर्वस्मात्पल्योपमासंख्यभागाद् बृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ॥ ५० ॥ एवं निकायद्वय| भाविनीमाद्य लेश्यात्रयस्थितिं दर्शयित्वा समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुमाह— मूलम् - तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर - जोइसवेमाणिआणं च५१ व्याख्या—‘तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्यात्तथेति शेषः, केषामित्याह-भवनपतिवानमन्तरज्योतिष्कवैमानिकानां चः पूर्वौ ॥ ५१ ॥ प्रतिज्ञातमाह - मूलम् -- पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्णहिआ । पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए व्याख्या - पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह- पल्योपमासंख्येयेन भागेन भवति तैजस्याः स्थितिः, इयं चास्याः स्थितिर्वैमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ॥ ५२ ॥ मूलम् — दसवाससहस्साईं, तेऊइ ठिई जहन्निआ होइ । दुण्णुदही पलिओम - असंखभागं च उक्कोसा व्याख्या - अत्र सूत्रे देवसम्बन्धितैजस्याः स्थितिः सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थिति - चतुस्त्रिंश मध्ययनम्. (३४) गा५१-५३ ।। ५७९ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy