________________
१२
द्यानां यादृशको रस इति योगः, मधु मद्यविशेषो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो पाशकः, अतो वरवारुण्यादिरसात् पद्माया रसः परकेण, अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते इति शेषः, अयं च किञ्चिदम्लः कषायो मधुरश्चेति भावनीयम् ॥ १४ ॥
मूलम् — खज्जूरमुद्दियरसो, खीररसो खंडसक्कररसो वा । एत्तोवि अनंतगुणो, रसो उ सुक्काइ नायवो ॥१५॥ व्याख्या— अत्र मृद्वीका द्राक्षा, शेषं व्यक्तमिति सूत्रषट्कार्थः ॥ १५ ॥ गन्धमाहमूलम् - जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अनंतगुणो, लेसाणं अप्पसत्थाणं ॥ १६ ॥ व्याख्या – 'अप्पसत्थाणंति' अप्रशस्तानां कृष्ण - नील- कापोतानाम् ॥ १६ ॥
| मूलम् —जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं । एत्तो वि अनंतगुणो, पसत्थलेसाण तिण्हंपि व्याख्या – 'गंधवासाणंति' गन्धाश्च कोष्टपुटपाकनिष्पन्ना वासाश्वेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि तेषां पिष्यमाणानां चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः । 'पसत्थलेसाणंति' प्रशस्तलेश्यानां | तेजः- पद्म- शुक्लानाम् । इह चानुक्तोपि गन्धविशेषो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थः ॥ १७ ॥ स्पर्शमाह -
चतुखिंशमध्ययनम्. गा १५-१७