________________
क्वापि न ततः, तृपाक्रान्तः श्रमातुरः ॥ दवदग्धाटवीतापो-त्तप्तोऽसौ व्याकुलोऽभवत् ॥ ९४ ॥ वीक्ष्य सप्तच्छदं दूरे, अष्टादशम
आध्ययनम् गत्वा तस्य तले द्रुतम् ॥ निविष्टोऽयं क्षणात्क्षोणी, पपात भ्रमितेक्षणः ॥ ९५॥ पुण्येन प्रेरितो यक्ष-स्तदासप्तच्छ-12
सनत्कुमारदालयः ॥ सर्वाङ्गेषु सिषेचामुं, शीतलैर्विमलै लैः ॥ ९६ ॥ प्राप्तसंज्ञस्ततस्तोयं, पीत्वासौ यक्षढौकितम् ॥ कस्त्वं कुतो चक्रिकथा जलं चैत-दानीतमिति पृष्टवान् ? ॥९७॥ सोवादीदस्मि यक्षोऽह-मिहत्यस्त्वत्कृते कृतिन् ! ॥ सरसः सरसं नीर- ९४-१०८ मानयं मानसादिदम् ॥ ९८ ॥ सुहृत्तवोचे तापोऽयं, मानसे मजनं विना ॥ न मेऽपगन्ताविरह-इवेष्टप्राप्तिमन्तरा ॥ ९९ ॥ तवाभीष्टं करोमीति, प्रोच्याऽमुं यक्षराट्र ततः ॥ कृत्वा पाणिपुटेऽनैषी-न्मानसं खच्छमानसः ॥१०॥ तत्राऽमुं विहितस्नान-मपनीतपरिश्रमम् ॥ यक्षोऽसिताक्षः प्राग्जन्म-विपक्षः क्षिप्रमैक्षत ॥ १.१॥ क्रोधाध्मातः सोऽथ बाढं, विकुर्वन् गुह्यकब्रुवः ॥ आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य तत्क्षणम् ॥ १०२॥ तमायान्तं निहत्यायं, पाणिनाऽपानयत्तरुम् ॥ यक्षस्तमोमयं विश्वं, ततश्चके रजोवजैः॥१०३॥ भीमाट्टहासान् धूमाभ-भूघनान् विकृताकृतीन् । पिशाचांश्च ज्वलज्ज्वाला-करालवदनान् व्यधात् ॥१०४॥ तैरप्यभीतं त्वन्मित्रं, नागपाशैबंबन्ध सः॥तान्सद्योऽत्रोटयदयं, जीर्णरजुरिव द्विपः ॥ १०५॥ ततो यक्षःकराघात-घोरैरतमताडयत् ॥ असौ तु तं न्यहन्मुष्ट्या, वज्रणेव गिरिं हरिः ॥ १०६ ॥ आर्यपुत्रमथो लोह-मुद्रेण जघान सः ॥ विरमन्ति हि नाकृत्या-त्कथंचिदपि दुर्जनाः ! ॥१०७॥ उन्मूलितेन सहसा, महता चन्दनद्रुणा ॥ तं वर्द्धिष्णुं निहत्योा , सखा तेऽपातयत्ततः॥ १०८॥गिरि