SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५६९॥ |त्रयखिंशमध्ययनम्, गा १७-१८ CAMERASACHALIS मूलम्-सवेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठिअसत्ताईअं, अंतो सिद्धाण आहिअं॥१७॥ | व्याख्या-सर्वेषां चः पृत्तौ एवोऽपिशब्दार्थः, ततः सर्वेषामपि कर्मणां प्रदेशाग्रं परमाणुपरिमाणं अनन्तमेवानन्तकं । तच्चानन्तकं ग्रन्थिकसत्त्वा ये प्रन्थिदेशं गत्वापि तं भित्त्वा न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृह्यन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिकसत्त्वातीतं । तथा अन्तर्मध्ये सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्मपरमाण्वपेक्षं चैतत् , अन्यथा हि सर्वजीवेभ्योप्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्यतेति ॥ १७ ॥ क्षेत्रमाहमूलम्-सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सवेसुवि पएसेसु, सवं सवेण बज्झगं ॥ १८॥ व्याख्या-सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूत्तौं, संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे, कर्म 'संगहेत्ति' संगृह्णन्ति । कीदृशं सदित्याह-'छद्दिसागयंति' षण्णां दिशां समाहारः षदिशं तत्र गतं स्थितं पडूदिशगतं, एतच द्वीन्द्रियादीनाश्रित्य नियमेन व्याख्येयं, एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः-“एगेंदिए णं भंते ! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छहिर्सि करेइ ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिर्सि सिअ छद्दिसिं करेइ । बेइंदिअ-तेइंदिअ-चउरिदिअ MOSAMICROSONACOM ॥५६९॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy