SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ १२ मूलम् — दाणे लाभे अ भोगे अ, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण विआहिअं ॥१५॥ व्याख्या - दाने देयवस्तुवितरणरूपे, लाभे च प्रार्थितवस्तुप्राप्तिरूपे, भोगे च सकृदुपभोग्यपुष्पादिविषये, उपभोगे पुनः पुनरुपभोग्य गृहख्यादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तत्र प्रवृत्तिर्न स्यात् १ । लाभान्तरायं तु येन भव्येपि दातरि याज्वादक्षेपि याचके लाभो न स्यात् २ । भोगान्तरायं तु येन सम्पद्यमानेष्याहारमाल्यादौ भोक्तुं न शक्नोति ३ । उपभोगान्तरायं तु येन सदपि वस्त्राङ्गनादि नोपभोक्तुं प्रभवति ४ । वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुनीकरणेपि न क्षमते ५ । इति सूत्रचतुर्दशकार्थः ॥ १५ ॥ एवं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धाय चाह— मूलम् - एआओ मूलप्पयडीओ, उत्तराओ अ आहिआ। पएसग्गं खेत्तकाले अ, भावं चादुत्तरं सुण १६ व्याख्या - एता मूलप्रकृतय उत्तराचेति उत्तरप्रकृतयश्च आख्याताः । प्रदेशाः परमाणवस्तेषामत्रं परिमाणं प्रदेशानं, 'खेत्तकाले अत्ति' क्षेत्रकालौ च भावं चानुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकादिरसमित्यर्थः, अत उत्तरमिति अतः प्रकृत्यभिधानादूर्द्ध शृणु कथयतो ममेति शेषः ॥ १६ ॥ तत्रादौ प्रदेशाप्रमाह त्रयस्त्रिंशमध्ययनम्. गा १५-१६
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy