________________
उत्तराध्ययन
।.५६७॥
त्रयास्त्रिंशमध्ययनम्.
गा८-१०
मूलम्-मोहणिजपि दुविहं, दसणे चरणे तहा । दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥
व्याख्या-मोहनीयमपि द्विविधं वेदनीयवत् , द्वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमाहनीयं चारित्रमोहनीयं चेत्यर्थः । तत्र दर्शने दर्शनविषयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविषयं द्विविधं भवेत् ॥८॥दर्शनमोहनीयत्रैविध्यमाहमूलम्-सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिण्णि पयडीओ, मोहणिजस्स देसणे ___ व्याख्या-सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्वरुचिः स्यात् १ । 'चेव' पूत्तौ, मिथ्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु तत्त्वबुद्धिर्जायते २। सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयखभावत्वं स्यात् ३। इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वाच दलिकानामपि तद्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविषयस्य ॥९॥ मूलम्-चरित्तमोहणं कम्म, दुविहं तु विआहिअं। कसायवेअणिज्जं तु, नोकसायं तहेव य ॥ १०॥
व्याख्या-चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाह-कपायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं, चः समुच्चये, नोकषाय
॥५६७॥