________________
KAMACHAR
व्याख्या-निद्रादीनां खरूपं त्वेवम्-"सुहपडिबोहा निद्दा १ निहानिद्दा य दुक्खपडिबोहा २। पयला ठिओ-II त्रयस्त्रिंशवविट्ठस्स ३ पयलपयला उ चंकमओ ४ ॥१॥ दिणचिंतिअत्थकरणी, थीणद्धी अद्धचक्किअद्धबलत्ति ५॥” इदं निद्रापञ्चकम् ॥५॥ 'चक्खुमचक्खुओहिस्सत्ति' मकारोऽलाक्षणिकः, चक्षुश्चाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति
गा ७ समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुर्दर्शने चक्षुषा रूपसामान्यग्रहणे । अच©षीति नत्रः पर्युदासत्वाचक्षुःसहशानि शेषेन्द्रियमनांसि तद्दर्शने तेषां खखविषयसामान्यावबोधे । अवधिदर्शने अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतच्च चक्षुर्दर्श-| नादिविषयत्वाच्चतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्ती नवविकल्पं नवभेदं ज्ञातव्यं दर्शनावरणम् ॥ ६॥ मूलम्-वेअणिअंपि अदुविहं, सायमसायं च आहिअं। सायस्स उ बहू भेआ, एमेवासायस्सवि॥७॥ ___ व्याख्या-वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तन्निमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति-बहव एव भेदा असातस्यापि, दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ॥७॥