SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५६६॥ त्रयस्त्रिंश४ मध्ययनम्. गा३-६ दुर्गतेर्निष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिवन्धकतामित्यायुस्तदेव कर्म आयुष्कर्म तथैव च ॥ २॥ मूलम्-नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अहेव उ समासओ ॥३॥ _ व्याख्या-नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इव गजाश्चादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते उच्चावचैः शब्दैः कुलालात् मृगव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृग्राहकयोर्मध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्बध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, तुः पूर्ती, समासतः संक्षेपतो विस्तरतस्तु यावन्तो जीवास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥ ३॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराहमूलम्-नाणावरणं पंचविहं, सुअं आभिणिबोहिअं। ओहिनाणं तइयं, मणनाणं च केवलं ॥४॥ __ व्याख्या-ज्ञानावरणं पञ्चविधं, तच कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह-सुअं' इत्यादि-॥४॥ मूलम् -निदा तहेव पयला, निदानिदा य पयलपयला य । तत्तो अ थीणगिद्धी उ, पंचमा होइ नायवा ॥ ५॥ चक्खुमचक्खुओहिस्स, दसणे केवले अ आवरणे । एवं तु नवविगप्पं नायवं दसणावरणं ॥६॥ ॥५६६॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy