SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ** * * ॥ अथ त्रयस्त्रिंशमध्ययनम् ॥ मात्रयविंश मध्ययनम्. |गा १-२ ॥ॐ॥ उक्तं द्वात्रिंशमध्ययन, अथ कर्मप्रकृतिसंशं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते इति सम्बन्धमादमादिसूत्रम्मूलम्-अट्ठ कम्माई वोच्छामि, आणुपुर्वि जहक्कम । जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ॥१॥ ___ व्याख्या-अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूर्व्या परिपाट्या । इयं च पश्चानुपूर्व्यादिरपि स्यादित्याह-यथाक्रम क्रमानतिक्रमेण । यैर्बद्धः श्लिष्टोऽयं प्रतिप्राणिखसंवेदनप्रत्यक्षो जीवः |संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् भ्राम्यतीति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाहमूलम्-नाणस्सावरणिज, सणावरणं तहा । वेअणिज्जं तहा मोहं, आउकम्मं तहेव य ॥२॥ ___ व्याख्या-ज्ञानस्य विशेषावबोधरूप आवियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामा-2 न्यावबोधस्तदाब्रियतेऽनेन प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमा|नमधुलिप्तासिधारावदिति वेदनीयम् । तथा मोहयति जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति * ** *
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy