________________
त्रयाखेंशमध्ययनम्. गा११-१३
मिति प्रक्रमानोकषायवेदनीयं । तत्र नोकपायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वद्यते । तथैव चेति समु-| चये ॥ १०॥ अनयोर्भेदानाहमूलम्-सोलसविह भेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥११॥ ___ व्याख्या-'सोलसविहत्ति' षोडशविधं भेदेन कर्म तु पुनः कपायजं “जं वेअइ तं बंधइत्ति" वचनात् कषाय| वेदनीयमित्यर्थः, षोडशभेदत्वं चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान [प्रत्याख्यानावरण] संज्वलनभेदाच्चतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं नवविधं वा कर्म नोकषायजं नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सारूपं वेदश्च सामान्यविवक्षया एक एवेति । |नवविधं तु तदेव षट्कं वेदत्रयसहितमिति ॥ ११॥ मूलम्-नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउविहं ॥ १२॥
व्याख्या-'नेरइअतिरिक्खाउंति' आयुःशब्दस्य प्रत्येकं योगान्नैरयिकायुस्तिर्यगायुः, शेष व्यक्तम् ॥ १२ ॥ मूलम् नामकम्मं तु दुविहं, सुहं असुहं च आहिअं। सुहस्स य बहू भेया, एमेव असुहस्सवि ॥१३॥ व्याख्या-नामकर्म द्विविधं, कथमित्याह-शुभमशुभं च आख्यातं, शुभस्य बहवो मेदा एवमेवाशुभस्यापि ।