SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशमध्ययनम्गा १०७१०८ नाटकामुकशुना-मेकस्यां प्रमदातनौ । कुण कामिनी भक्ष्य-मिति तिस्रो विकल्पनाः ॥१॥" ततो वीतरागद्वेपस्य नैवामी मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाकोशदानादिप्रयोजनानुत्पत्ते वानर्थोत्पत्तिः स्यादिति सूत्रपट्कार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह मूलम्-एवं ससंकप्पविकप्पणासु, संजायए समयमुवट्रिअस्स । अत्थे अ संकप्पयओ तओ से, पहीअए कामगुणेसु तण्हा ॥ १०७ ॥ व्याख्या-एवमुक्तनीत्या खस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा अध्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः खसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सआयते समता माध्यस्थ्यमितियोगः । अाश्चेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् | चस्य भिन्नक्रमत्वात् सङ्कल्पयतश्च शुभध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलापः ॥ १०७॥ ततः स किं करोतीत्याह मूलम्-स वीअरागो कयसबकिच्चो, खवेइ नाणावरणं खणणं । तहेव जं दसणमावरेइ, जं चतरायं पकरेइ कम्मं ॥ १०८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy