SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५६४॥ द्वात्रिंशमध्ययनम्. (३२) गा १०९ व्याख्या-स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यच्चान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ॥ १०८ ॥ यत्क्षया च कं गुणमवाप्नोतीत्याह मूलम्-सत्वं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए । - अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ १०९ ॥ व्याख्या-सर्व ततो ज्ञानावरणीयादिक्षयाजानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथा|ऽमोहनो मोहरहितो भवति, तथा निरन्तरायः, अनाश्रवः कर्मबन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमखास्थ्यं ध्यानसमाधिस्तेन युक्तो ध्यानसमाधियुक्तः, आयुषः उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षयः आयुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ॥ १०९ ॥ मोक्षगतश्च यादृशः स्यात्तदाह मूलम्-सो तस्स सवस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेअं। दीहामयविप्पमुक्को पसत्थो, तो होइ अच्चंतसुही कयत्थी ॥ ११०॥ ॥५६४॥ २४
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy