SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३४२ ॥ १५ १८ २१ २४ मयेऽन्यदा । समं महेन्द्रसिंहेन, क्रीडायै भूपभूर्ययौ ॥ ४९ ॥ नानाक्रीडाभिरक्रीड-त्सत्रा मित्रेण तत्र सः ॥ तदा च राज्ञोऽश्वपति-र्यान्वाहानढोकयत् ॥ ५० ॥ हयं जलधिकलोला -ह्वयं भूपभुवोऽप्यधात् ॥ कुमारोऽपि तमारोह-तद्गतिं द्रष्टुमुत्सुकः ॥ ५१ ॥ कशां चोत्क्षिप्य तं यावत् प्रेरयामास भूपभूः ॥ सोऽश्वस्तावद्दधावोचे-त्रयुं जेतु| मना इव ॥ ५२ ॥ यथा यथाकृषद्वलगां, रक्षितुं तं नृपाङ्गजः ॥ स वऋशिक्षितो वाहो, वह्नधावत्तथा तथा ॥ ५३ ॥ राज्ञां राजकुमाराणां, सादिनां धावतामपि ॥ मध्यात्कुमारं हत्वाऽश्वः क्षणात्सोऽगाददृश्यताम् ॥ ५४ ॥ ततोऽश्वसेनभूशको, ज्ञात्वाऽश्वापहतं सुतम् ॥ प्रत्यानेतुं स सैन्योगा-द्यावद्वाजिपदानुगः ॥ ५५ ॥ तावद्भूरिरजःपुञ्ज - दिग्मूढीकृतसैन्यया ॥ भग्नानि पादचिह्नानि, तस्य वाहस्य वात्यया ॥ ५६ ॥ निरुपाये ततोऽत्यर्थ, व्याकुले सकले बले ॥ महेन्द्रसिंह भूमीन्द्र - सिंहमित्थं व्यजिज्ञपत् ॥ ५७ ॥ देव ! दैवादिदं सर्व - मजनिष्टासमञ्जसम् ॥ तथापि मित्रमन्विष्या - ssनेष्यामि न चिरादहम् ॥ ५८ ॥ प्रभोः प्रभूतसैन्यस्य, कान्तारे दुष्करा भ्रमिः । सुकरा सा खगस्येव, खल्पतंत्रस्य मे पुनः ॥ ५९ ॥ तत्तिष्ठतु प्रभुर्यामि, खामीन् ! सुहृदमन्वहम् ॥ तेनेत्युक्तोऽवलिष्टोत्र-पतिरश्रुजलाविलः ॥ ६० ॥ धीरो महेन्द्रसिंहस्तु, मितसारपरिच्छदः ।। क्रीडावनीं यमस्यैवा - Sरण्यानीं प्रविवेश ताम् ॥ ६१ ॥ प्रौढपादैरुग्रदन्तैः, प्रक्षरन्मदनिर्झरैः ॥ करीन्द्रैश्च गिरीन्द्रैश्व, क्वापि दुर्गमतां गताम् ॥ ६२ ॥ क्वापि प्रारब्धसमर-सैरिभो - त्खातपादपाम् ॥ सङ्कीर्णी केशरव्याघ्र - व्यालभल्लूकसूकरैः ॥ ६३ ॥ भानुभानुगगाभेद्य-निकुञ्ज निकरैः क्वचित् ॥ अष्टादशम ध्ययनम् (१८) सनत्कुमारचक्रिकथा ४९-६३ ॥ ३४२ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy