SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १२ 36 = 3 + 3 पूजनांस्तथा ॥ जिनधर्मो गुरूपान्ते, प्रत्रज्य जिनधर्मवित् ॥ ३५ ॥ पुरान्निर्गत्य विहिता - ऽनशनोऽद्रिशिरस्थितः ॥ पक्षं पक्षं कृतोत्सर्गः क्रमादस्थाचतुर्द्दिशम् ॥ ३६ ॥ [ युग्मम् ] गृध्रकाकादिभिर्भक्ष्य - माणपृष्ठोऽपि तत्र सः ॥ सहमानो व्यथामुग्रां स्मरन् वञ्चनमस्क्रियाः ॥ ३७ ॥ विपद्य प्रथमखर्गे, बभूव त्रिदशाधिपः ॥ आनुषङ्गि फलं होतत्, जिनधर्मविधायिनाम् ॥ ३८ ॥ [ युग्मम् ] तापसोऽपि मृतस्तेना - ऽऽभियोग्येन कुकर्मणा ॥ ऐरावणाह्वयो हस्ती, जज्ञे तस्यैव वाहनम् ॥ ३९ ॥ ततश्युत्वा भवे भ्रान्त्वा, कृत्वा बालतपः क्वचित् ॥ यक्षोऽसिताक्षनामाभू - जीवस्तस्य त्रिदण्डिनः ॥ ४० ॥ इतश्चात्रैव भरते, विषये कुरुजङ्गले ॥ अस्ति स्वस्तिपदं श्रीम-नगरं हस्तिनापुरम् ॥ ४१ ॥ जैत्रसेनोऽश्वसेनाह्नस्तत्राभूद्भूभुजां वरः ॥ सहदेवीति तस्यासी - देवी देवीव भूगता ॥ ४२ ॥ तस्याः कुक्षौ जिनधर्म- जीवः खर्गात्परिच्युतः ॥ चतुर्दश महाखप्नान्, दर्शयन् समवातरत् ॥ ४३ ॥ पूर्णे कालेऽथ साऽसूत, सुतं लक्षणलक्षितम् ॥ जग जनमनोहारि रूपं लक्ष्मीरिव स्मरम् ॥ ४४ ॥ सनत्कुमार इत्याख्यां चक्रे तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, कल्पद्रुम इवोद्गतः || ४५ || श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः ॥ सपांशुक्रीडितस्तस्य, वयस्यः शस्यधीरभूत् ॥ ४६ ॥ समं तेन वयस्येन, कलाचार्यस्य सन्निधौ ॥ सनत्कुमारः सकलाः कलाः जग्राह लीलया ॥४७॥ अमंत्रयंत्र निश्शेष-कामिनीजनकार्मणम् ॥ लावण्यपुण्यं तारुण्यं, कुमारः प्राप स क्रमात् ॥ ४८ ॥ उद्यानं मकरन्दाख्यं, वसन्तस अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा ३५-४८
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy