________________
उत्तराध्ययन
॥ ३४१ ॥
१५
१८
२१
२४
सुत्रताचार्यसन्निधौ । राज्यं रज इवोत्सृज्य, प्रव्रज्यामाददे नृपः ॥ २१ ॥ तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः ॥ चिरं विहृत्य व्यापन्न - स्तृतीयं खर्जगाम सः ॥ २२ ॥ ततश्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् ॥ श्रेष्ठिपुत्रः श्राद्धधर्म, शुद्धं वाल्यादपि श्रितः ॥ २३ ॥
इतश्च कान्ताविरहा-न्नागदत्तोऽतिदुःखितः ॥ मृत्वार्त्तध्यानतो भ्रामं भ्रामं तिर्यक्षु भूरिशः ॥ २४ ॥ अग्निशर्मा - ह्रयो विप्रः, पुरे सिंहपुरेऽभवत् ॥ पुण्याशया त्रिदण्डित्वं, स्वीचकार स चैकदा ॥ २५ ॥ [ युग्मम् ] द्विमासादि तपः कुर्वन् सोऽगाद्रत्नपुरेऽन्यदा । त्रिदण्डिभक्तस्तत्राभू-द्भूपतिर्नरवाहनः ॥ २६ ॥ तेन राज्ञा तपखीति, भोक्तुं नीतो निजे गृहे ॥ सोऽपश्यजिनधर्मं तं दैवात्तत्रागतं तदा ॥ २७ ॥ ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः ॥ नरवाहनभूमीश - मित्यूचे स त्रिदण्डिकः ॥ २८ ॥ अस्याढ्यस्य न्यस्य पृष्टे, पात्रमत्यूष्णपायसम् ॥ चेद्विभो ! भोजयसि मां तदा भुझे भव ॥ २९ ॥ स्थालमन्यस्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् ॥ नृपेणेत्युदितो रुष्टो दुष्टो भूयोऽवद' ती ॥ ३० ॥ पृष्ठेऽस्यैव न्यस्य पात्रं, भुजे गच्छामि वाऽन्यतः ॥ तद्भक्तः स ततो भूपः, प्रत्यपद्यत तद्वचः ॥ ३१ ॥ नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः ॥ अत्युष्णपायसं स्थालं, न्यस्य भोक्तुं प्रचक्रमे ॥ ३२ ॥ श्राद्धोऽपि स्थालतापं तं सोऽधिसेहे विशुद्धधीः ॥ स्वस्यैव कर्मणोऽयं हि, विपाक इति चिन्तयन् ॥ ३३ ॥ भुक्ते भिक्षौ श्रेष्ठिपृष्ठात्समं त्वग्मांसशोणितैः ॥ जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ॥ ३४ ॥ सत्कृत्य क्षमयित्वाऽथ, खजनान्
अष्टादशम ध्ययनम् (१८) सनत्कुमारचक्रिकथा २१-३४
॥ ३४१ ॥