________________
१२
विलपन्निति सार्थेशो, वभ्रामोन्मत्तवत्ततः ! ॥ ६ ॥ शुद्धान्तनारीसहितां, लजां लोकापवादजां ॥ विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ॥ ७ ॥ जातासूयास्ततो राज्ञ्यो ऽकारयन् कार्मणं तथा ॥ मृगाक्षी क्षीयमाणा सा व्यपद्यत यथा खयम् ॥ ८ ॥ ततस्तस्या वियोगेन, दुस्सहेन दवाग्भिवत् ॥ नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवद्भृशम् ॥ ९॥ नानौ क्षेतुमदात्तस्याः, शवं स स्नेहमोहितः ॥ ऊचे च मत्प्रिया मौनं, धत्ते प्रणयकोपतः ! ॥ १० ॥ सचिवाः किञ्चिदालोच्य, वञ्चयित्वा च पार्थिवम् ॥ विपिने क्षेपयंस्तस्या, घेनोरिव शवं ततः ॥ ११ ॥ ताञ्चापश्यन्नश्रुनीर - धाराभिः स धराधरः ॥ धरां धारघर इव, सिञ्चन्नाटीदितस्ततः ॥ १२ ॥ कान्ते ! कान्तस्त्वदेकान्त - खान्तो विरहविह्वलः ॥ हास्यान्नोपेक्षणाः स्यादिति चाक्रन्ददुच्चकैः ! ॥ १३ ॥ इत्थं त्यक्तान्नपानस्य, गते राज्ञो दिनत्रये ॥ अमात्या त्रियतां माय-मिति तं काननेऽनयन् ॥ १४ ॥ तत्र च प्रसरत् पूती - क्लिन्नं क्रमिकुलाकुलम् ॥ गृत्रविक्षिप्तवक्षोजं, वायसाकृष्टलोचनम् ॥ १५ ॥ आकृष्टांत्रं शृगालीभिरावृतं मक्षिकागणैः ॥ विष्णुश्रियो वपुर्वीक्ष्या - ऽध्यासीदिति महीपतिः ॥ १६ ॥ [ युग्मम् ] अहो असारे संसारे, सारं किंचिन्न दृश्यते ॥ मया त्वसौ सारमिति-ध्याता मूढेन धिक् चिरम् ॥ १७ ॥ कुलशीलयशोलज्जा - स्त्यक्ता यस्याः कृते त्वया ॥ रेजीव ! मत्त ! पश्याद्य, तस्या जातेशी दशा ! ॥ १८ ॥ प्रियेति यां पृथक्कर्त्तु-मभुवं न प्रभुः क्षणम् ॥ वीक्ष्य तामपि शीतार्त्त - मिव मे वेपते वपुः ! ॥ १९ ॥ ततो धर्मक्रियानीरैः, पापपङ्कपरिप्लुतम् ॥ आत्मानं विमलीक, साम्प्रतं मम साम्प्रतम् ॥ २० ॥ विमृश्येति विरक्तात्मा,
अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा
६-२०