________________
उत्तराध्य
॥ ३४० ॥
१५
१८
विजयी, समुद्रविजयोऽभवत् ॥ ४ ॥ तस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी ॥ सोऽथ देवोऽन्यदा च्युत्वा तस्याः कुक्षाववातरत् ॥ ५ ॥ चतुर्दशमहाखप्नां - स्तदा च प्रेक्ष्य सा मुदा ॥ राज्ञे जगाद चक्री ते, सुतो भाविति सोऽप्यवक् ॥ ६ ॥ क्रमाच्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् ॥ महोत्सवैर्नृपस्तस्य, मघवेत्यऽभिधां व्यधात् ॥ ७ ॥ संप्राप्तः सोऽथ तारुण्यं, दत्तराज्यो महीभुजा ॥ उत्पन्नचक्रः पटूखण्डं, साधयामास भारतम् ॥ ८ ॥ भुक्त्वा चिरं चक्रिरमां विरक्तः, प्रान्ते परित्रज्य स चक्रवर्त्ती ॥ पंचान्दलक्षीमतिवाद्य सर्वा ऽऽयुषो सुरोऽभूत्रिदिवे तृतीये ॥ ९ ॥ इति श्रीमधवचक्रिकथा ॥ ३६ ॥
मूलम् - सणकुमारो मणुस्सिदो, चक्कवही महिड्डीओ । पुत्तं रज्जे ठवित्ता णं, सोवि राया तवं चरे ॥३७॥ व्याख्या - स्पष्टं - तच्चरितं चैवं, तथा हि
अस्तीह काञ्चनपुरं, समृद्धं काञ्चनर्द्धिभिः ॥ तत्रासीद्विक्रमयशा, विक्रमाक्रान्तभूर्नृपः ॥ १ ॥ तस्य पंच शतान्या - सन् राज्ञो विश्वमनोहराः ॥ तत्र चाभूत् पुरे नाग- दत्ताह्नः सार्थपो धनी ॥ २ ॥ रूपलावण्यसौभाग्य - निर्जितामरसुन्दरी ॥ विष्णुश्रीरिति तस्यासी - त्कान्ता विष्णोरिवाब्धिजा ॥ ३ ॥ तां चान्यदा नृपोऽपश्य - न्मनसः पश्यतोहराम् ॥ दध्यौ चेमां विना जन्म, राज्यं चैतन्ममाऽफलम् ! ॥ ४ ॥ चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम् ॥ प्राणिनो हि प्रियः प्रायो - ऽन्यायोऽपथ्यमिवाऽपटोः ॥ ५ ॥ विनाऽपि विप्रियं त्यक्त्वा, प्रियं क्वासि ? गता प्रिये ! ॥
अष्टादशम ध्ययनम् (१८) मघवचक्रि
कथा
४-९
गाथा ३७
सनत्कुमारचक्रिकथा १-५ ॥ ३४० ॥