SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् सगरचक्रि कथा ७६-८४ पुरे ॥ पुरारक्षास्ततो ग्राम-मीयुस्तं तत्पदानुगाः ॥७६॥ ग्रामद्वाराणि चावृत्या-ज्वालयन् परितोऽनलम् ॥ स कुला- लस्तु तत्राहि, ग्राममन्यं गतोऽभवत् ॥ ७७ ॥ तं विना ते ततः सर्वे, प्लुष्टा दुष्टा विपेदिरे ॥ मात्रिवाहकजीवत्वेनाष्टव्यां चोपपेदिरे ॥ ७८॥ पिण्डीभूय स्थितास्तेऽथ, तत्रायातस्य हस्तिनः ॥ पादेन मर्दिता मृत्वा, चिरं भ्रमुः कुयोनिषु ॥ ७९ ॥ पुण्यं च प्राग्भवे किञ्चि-त्कृत्वा ते सङ्घदस्यवः॥जज्ञिरे चक्रिणः षष्टि-सहस्राणि सुता इमे ॥८॥ प्राग्भवैर्दुर्भवैस्तस्य, बहुभुक्तस्य कर्मणः ॥ शेषांशेन मृता एते, सममेव महीपते !॥ ८१॥ कुलालोऽप्यन्यदा मृत्वा, सोऽभूत् क्वापि पुरे धनी ॥ तत्रापि सुकृतं कृत्वा, विपद्य क्वाप्यभून्नृपः ॥ ८२ ॥ भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् ॥ ततश्चयुतश्च त्वं जहु-जातो जातोऽसि भूपते ! ॥८३॥ भगीरथक्षोणिधवोऽथ वाचं, वाचंयमस्वेति निशम्य सम्यक् ॥ सुश्राद्धधर्म प्रतिपद्य हृद्यं, सद्योऽनवद्यः खपुरी जगाम ॥८४॥ इति सगरचक्रवर्तिकथालेशः॥३५॥ मूलम्-चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ। पवज्जमब्भुवगओ, मघवं नाम महायसो ॥ ३६॥ | व्याख्या-सुगम, तत्कथालेशस्त्वेवं, तथा हि अभूदिहव भरते, महीमण्डलसत्पुरे ॥ वासुपूज्यप्रभोस्तीर्थे, नाम्ना नरपतिपः ॥१॥ खप्रजावत् प्रजाः सम्यक्, पालयित्वा चिरं स राट् ॥ संत्यज्य राज्यमन्येद्यु-विरक्तो व्रतमाददे ॥२॥ अप्रमत्तश्चिरं दीक्षा, पालयित्वा विपद्य | च ॥ अहमिन्द्रः स गिर्वाणो, मध्यप्रैवेयकेऽभवत् ॥३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः॥ श्रिया समुद्र गाथा ३६ मघवचक्रिकथा १२
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy