SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३३९॥ ** अष्टादशमध्ययनम् (१८) सगरचकि कथा ६२-७५ **** प्रामान् , प्लावयत्तन्निवार्यताम् ॥ ६२॥ राज्ञादिष्टस्ततः शिष्टः, पुत्रपुत्रो भगीरथः ॥ तत्र गत्वाऽष्टमं कृत्वा-ऽऽराधयज्ज्वलनप्रभम् ॥ ६३ ॥ प्रदत्तदर्शनं तं चे-त्यूचे युष्मत्प्रसादतः ॥ गङ्गा नीत्वाम्बुधौ लोकान् , करोमि निरुपद्रवान् ॥ ६४ ॥ वारयिष्यामि भुजगा-नहं भरतवासिनः ॥ तत्कुरुष्वाऽभयोऽभीष्ट-मित्युक्त्वाऽगात्ततोऽहिराट् ॥६५॥ नागपूजां ततः कृत्वा, दण्डरत्नेन जहुजः ॥ नीत्वा सुपर्वसरितं, पूर्वाधावुदतारयत् ॥ ६६ ॥ भगीरथो भोगिपूजां, तत्रापि विधिवत् व्यधात् ॥ गङ्गासागरसङ्गाख्यं, तत्तीर्थ पप्रथे ततः॥६७॥ गङ्गापि जहुनाऽऽनीते-त्युक्ता लोकेन जाह्नवी ॥ भगीरथेन नीताब्धा-विति भागिरथी तथा ॥ ६८॥ अथो भगीरथोऽयोध्यां, गतस्तुष्टेन चक्रिणा ॥ सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः॥६९॥ खयं तु व्रतमाहत्य, सन्निधावजितप्रभोः॥ सुदुस्तपं तपस्तेपे, सगरस्सत्यसङ्गरः ॥ ७० ॥क्रमाच केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः ॥ द्वासप्ततिं पूर्वलक्षाः, समाप्यायुः शिवं ययौ ॥ ७० ॥ सर्वे समायुषो जदु-मुख्याः किं जज्ञिरे ? प्रभो !॥ज्ञानी भगीरथेनेति, पृष्टोऽन्येचुरदोऽवदत् ॥७२॥ सङ्घः पुरा जिनानन्तुं, सम्मेतादि ब्रजन्महान् ॥ सम्प्राप्य गहनप्रान्तं, प्रान्तग्रामे कचिद्ययौ ॥ ७३॥ अनार्यस्तद्गतैः पष्टिसहस्रप्रमितेजेनेः ॥ एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ॥७४॥ स संघो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः ॥ तैस्तु तत्प्रत्ययं सर्वेः, पापकर्म निकाचितम् ॥७५ ॥[युग्मम् ] अन्यदा कोऽपि तत्रत्यो-न्यत्र चौर्य व्यधात् १ सत्यप्रतिज्ञः॥ ॥३३९॥ *****
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy