________________
C
उत्तराध्ययन ॥५५३॥
द्वात्रिंशमध्ययनम्.
(३२) गा २९
AXEHRSHAYARI
हेतुभूतेन उत्पादने उपार्जने रक्षणं च अपायेभ्यः सन्नियोगश्च खपरप्रयोजनषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति गम्यते, क सुखं ? न कापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलत्र-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थ तेषु तेषु क्लेशहेतुषूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी। पाठान्तरे वा ["रूवाणुरागेण" इति रश्यते, तत्र रूपानुरागण हेतुना यः परिग्रहस्तेन शेष प्राग्वत् ] ननु रूपवतामुत्पादनादिषु सुखं मा भूत्, सम्भोगकाले तु भावीत्याशंक्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्तिलाभे तृप्तिप्राप्त्यभावे क सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । यदुक्तं"न जातु कामः कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥१॥"- ततोऽधिकाधिकेच्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ॥२७॥ ततस्तस्यापरापरदोषपरम्परावाप्तिमाह
मूलम्-रूवे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि ।
अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९ ॥ व्याख्या-रूपे अतृप्तः चस्य भिन्नक्रमत्वात् परिग्रहे च विषयमूर्छालक्षणे सक्तः सामान्येनैवासक्तिमान् , उपस-1 क्तश्च गाढमासक्तः, ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोपोऽतुष्टिदोषः
+KASABHARACK
॥५५३॥