________________
द्वात्रिंशमध्ययनम्. गा २७-२८
तथा च दुःखस्य सम्पीडं संघातं उपैति बालो मूढः, न लिप्यते तेन द्वेषकृतदुःखेन मुनिर्विरागो रागरहितः ॥२६॥ अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहैव तद्द्वारा दुःखजनकत्वं च सूत्रपट्केनाह
मूलम्-रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ णेगरूवे।
चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिहे ॥ २७॥ व्याख्या-रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा चासौ आशाच रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतच, पाठान्तरे [रूवाणुवायाणुगएत्ति] रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी 'जीवेत्ति' जीवांश्चराचरान् प्रसस्थावरान् हिनस्ति अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति बालोऽपरांश्च पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः स्वप्रयोजननिष्ठः क्लिष्टो रागवाधितः ॥ २७ ॥ तथा
मूलम्-रूवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे।
वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ २८॥ व्याख्या-रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पूत्तौं, परिग्रहेण मूर्छात्मकेन
१२