________________
उत्तराध्ययन ॥५५२॥
द्वात्रिंशमध्ययनम्.
(३२) गा२५-२६
मूलम्-जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं ।
दुदंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥२५॥ व्याख्या-यश्च यस्तु अपिभिन्नक्रमोऽन्यत्र योक्ष्यते, द्वेषं समुपैति तीन रूपेष्विति प्रक्रमः, स किमित्याह|'तंसित्ति' प्राच्यस्यापिशब्दस्यह योगात्तस्मिन्नपि क्षणे स तुः पूत्तौं उपैति दुःखं मनःसन्तापादिकं, यद्येवं तर्हि रूप
स्यैव दुःखहेतुत्वं, तत एव द्वेषसम्भवादित्याशंक्याह-दुष्टं दान्तं दमनं दुन्तिं दुईमत्वमित्यर्थः, तच प्रक्रमाचक्षुष| स्तदेव दोषो दुर्दान्तदोपस्तेन स्वकेनात्मीयेन जन्तुर्देही, न किञ्चिदल्पमपि रूपमपराध्यति तस्य जन्तोः । यदि ४ाहि रूपमेव दुःखहेतुः स्यात्तदा वीतरागद्वेषस्यापि दुष्टरूपनिरूपणे दुःखं स्यान्नचैतदस्ति, ततः खस्यैव दोषेण
दुःखमाप्नोति प्राणीति भावः ॥२५॥ इत्थं रागद्वेषयोरनर्थहेतुत्वमुक्तं, इदानीं तु द्वेषस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह
मूलम्-एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं ।
दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागो ॥ २६ ॥ व्याख्या--एकान्तरक्तो रुचिरे मनोरमे रूपे यः स्यादिति शेषः, अतादृशेऽनीरशे प्रक्रमापे स करोति प्रद्वेष.
॥५५२॥