________________
१२
मूलम् — रुवस्स चक्खुं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्सहेउं अमणुण्णमाहु ॥ २३ ॥
व्याख्या - रूपस्य चक्षुर्गृह्णातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृह्यते इति ग्रहणं ग्राह्यं वदन्ति अनेन रूपचक्षुषोरन्योन्यं ग्राह्मग्राहकभावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह - रागस्सेत्यादि - रागस्य हेतुं प्रक्रमाच्चक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं | अमनोज्ञं मनोज्ञरूपरहितमाडुस्ततो युक्त एव चक्षुषो निग्रह इति भावः ॥ २३ ॥ इत्थं रागद्वेषोद्धरणोपायमुक्त्वा तदनुद्धरणे दोषमाह -
मूलम् - रुवेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवेइ मधुं ॥ २४
व्याख्या - रूपेषु यो गृद्धिं रागमुपैति तीत्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलोऽतिस्निग्धदीपशिखादर्शन लम्पटः समुपैति मृत्युम् ॥ २४ ॥
द्वात्रिंशमध्ययनम्. गा२३-२४