SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ १२ समभिद्रवन्ति । कमिव के इव ? इत्याह- द्रुमं यथा खादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः पक्षिण इव । इह द्रुमोपमः पुमान् खादुफलकल्पं दृसत्वं, पक्षितुल्याः कामाः ॥ १० ॥ किञ्च - मूलम् – जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ । एविंदिअग्गीव पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ॥ ११ ॥ व्याख्या—यथा दवाग्भिः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपैति एवं दवाग्भिवत् 'इंदियग्गित्ति' इहेन्द्रि यशब्देन इन्द्रियजनितो राग एव गृह्यते स एव धर्मद्रुमदाहकत्वादभिरिन्द्रियाभिः सोऽपि प्रकाम भोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ॥ ११ ॥ अन्यच मूलम् — विवित्तसेजासणजंतिआणं, ओमासणाणं दमिइंदिआणं । न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ १२ ॥ व्याख्या - विविक्ता रुयादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यंत्रिता नियंत्रिता विविक्तशय्यासनयंत्रितास्तेषां अवमाशनानां न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजितः पराभूतो व्याधिः कुष्ठादिरिवौषधैर्गदुच्यादिभिर्देहमिति गम्यते ॥ १२ ॥ विविक्तवसत्यभावे दोपमाह द्वात्रिंश[मध्ययनम्. गा११-१२
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy