________________
-M-1
उत्तराध्ययन ॥५४८॥
१५
मूलम् -रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं।
द्वात्रिंशजे जे उवाया पडिवज्जियवा, ते कित्तइस्सामि अहाणुपुत्विं ॥९॥
मध्ययनम्.
(३२) व्याख्या-रागं च द्वेषं च तथैव मोहं उद्धर्जुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकपायादीनां विषया- कागा९-१० दीनां च जालेन वर्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्तयिष्यामि यथानुपूवीति सूत्रार्थः॥९॥ प्रतिज्ञातमाह
मूलम्-रसापगामं न निसेविअवा, पायं रसा दित्तिकरा नराणं।
दित्तं च कामा समभिद्दवंति, दुमं जहा सादुफलं व पक्खी ॥ १०॥ व्याख्या-रसाः क्षीरादिविकृतयः प्रकामं बाढं न निषेवितव्या ने भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनिवारणाय रसा अपि जातु ग्राह्या इति सूचनार्थम् । कुत एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा दृप्तिकरा धातूद्रेककारिणो नराणामुपलक्षणत्वात् ख्यादीनां च भवन्ति, दृप्तं च नरं बहुवचनप्रक्रमेप्येकवचनं जातित्वात् कामा विषयाः ॥५४८॥
CALCOMCAMPCASSACRAC
१ नोपभोक्तव्याः-इति “घ” पुस्तके ।