SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५४६॥ SHARMACEAE%ER मूलम्-नाणस्स सवस्स पगासणाए, अण्णाणमोहस्स विवजणाए । द्वात्रिंश मध्ययनम. रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥ (३२) व्याख्या-ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सच्चस्स' सत्यस्य वा प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको |गा २-३ द्र मोक्षहेतुरुक्तः । तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवर्जना मिथ्याश्रुतश्रवण-* कुदृष्टिसङ्गत्यागादिना परिहाणिस्तया, अनेन सम्यग्दर्शनरूपो मोक्षहेतुरेवोक्तः । रागस्य द्वेषस्य च संक्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः-सम्यग्ज्ञानदर्शनचारित्रैरकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः ॥२॥ नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ? मूलम्-तस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा । सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य॥३॥ ॥५४६॥ व्याख्या-तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एष मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थि-18 तशास्त्राभिधायकाः, वृद्धाश्च श्रुतपर्यायादिना स्थविरास्तेपां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्थस्थादेवरात KAARA ACAR 0-567
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy