________________
६
१२
उ० ९२
कुन
दूरेण, खल्पस्यापि तत्सङ्गस्य महादोषत्वात् । खाध्यायस्य एकान्तेन व्यासङ्गत्यागेन निषेवणा अनुष्ठानं एकान्तनिषेवणा । चः समुचये, सूत्रार्थसञ्चिन्तना, धृतिश्च मनःखास्थ्यं, न हि धृतिं विना ज्ञानादिलाभ इति सूत्रार्थः ॥ ३ ॥ यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राकिं कर्त्तव्यमित्याह
मूलम् - आहारमिच्छे मिअमेसणिजं, सहायमिच्छे निउणहबुद्धिं । निकेअमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥ ४॥
व्याख्या - अहारमिछेन्मितमेषणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थेषु जीवादिषु बुद्धिर्यस्य स तथा तं । निकेतमाश्रयमिच्छेद्विवेकः ख्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमणः तपखीति सूत्रार्थः ॥ ४ ॥ ताह| शसहायालाभे यत्कार्य तदाह
मूलम् - ण वा लभिजा निउणं सहायं, गुणाहिअं वा गुणओ समं वा । एकोऽवि पावाई विवज्जयंतो, विहरिज कामेसु असजमाणो ॥ ५॥
व्याख्यान निषेधे, वा शब्दश्चेदर्थे, ततश्च न चेलभेत निपुणं सहायं गुणैर्ज्ञानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत्
द्वात्रिंशमध्ययनम्. गा ४-५