SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वात्रिंशमध्ययनम् ॥ द्वात्रिंशमध्ययनम्, गा १ ॥ॐ॥उक्तमेकत्रिंशमध्ययनं अथ प्रमादस्थानाख्यं द्वात्रिंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने चरणमुक्तं, तच्च | प्रमादस्थानत्यागादेवासेव्यते, तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् । मूलम्-अच्चंतकालस्स समूलयस्स, सबस्स दुक्खस्स उ जो पमोक्खो। तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥१॥ | व्याख्या-अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ प्रारम्भक्षणो निष्टाक्षणश्च, तत्रेहारम्भक्षणलक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन कषायाविरतिरूपेण वर्त्तते इति समूलकस्तस्य, सर्वस्य दुःखयतीति दुःखः संसारस्तस्य, तुः पूत्तौं, यः प्रकर्षण मोक्षोऽपगमः प्रमोक्षः तं भाषमाणस्य मे, प्रतिपूर्ण प्रस्तुतार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः सन्तो यूयं शृणुत, एकान्तेन निश्चयेन हितं एकान्तहितं, हितस्तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाह
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy