SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ १२ तथैवोपसर्गसहः स्यात्, एपणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभीग्रहवती स्यात्, तद्यथासप्तसु भक्तपानपणासु अन्त्याश्चतस्र एव ग्राद्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं पुनरलेपकृत्तस्य इत्यादि परिकर्म कृत्वा ॥ ४ ॥ " गच्छाविणिक्खमित्ता, पडिवज्जे मासिअं महापडिमं । दत्तेगभोअणस्सा, पाणस्सवि एग जा मासं" यद्याचार्यः प्रतिपत्ता तदा खल्पकालं साध्यन्तरे खपदं न्यस्य शरत्काले स्वगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्त्तते ॥ ५॥ " जत्थत्थमेइ सूरो, न तओ ठाणा पयंऽपि संचलइ । नाएगराइवासी, एगं व दुगं व अण्णाए । " ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे वा दिने अज्ञाते ॥ ६ ॥ "दुट्टाण हत्थिमाईण, नो भएणं पयंधि ओसरई । एमाइ नियमसेवी, विहरह जाऽखंडिओ मासो ॥ ७ ॥ पच्छा गच्छमुवेई, एवं दुमासी तिमासि जा सत्त । नवरं दत्ती वढ्ढइ जा सत्त उसत्तमासीए ॥ ८ ॥ तत्तो अ अट्ठमीआ, हवइह पडिमा उ सत्तराइदिणा । तीइ चउत्थचउत्थे ण, पाणएणं इह विसेसो " । अष्टम्यामयं विशेषो यच्चतुर्विधाहारांश्चतुर्थान् करोति, इहापि च पारणकेष्वाचाम्लं कार्य, दत्तिनियमस्तु नास्ति ॥ ९ ॥ तथा " उत्ताणग-पासली, नेसजी आणि ठाण ठाइत्ता । सहइ उबसग्गे घोरे, दिवाई तत्थ अविकंपो” । उत्तानक ऊर्ध्वमुखशयितः, पासली पार्श्वमुखशयितः, निषद्यावान् समपुततयोपविष्टः स्थानमुक्तरूपं स्थित्वा ग्रामादिभ्यो वहिरिति शेषः ॥ १० ॥ " दुच्चावि एरिसचिअ बहिआ गामाइआण एकत्रिंशमध्ययनम्.
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy